१८.१
व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवः ।
विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम् ॥
विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम् ॥
Karandikar
Then the grief that had its origin in couterine relation ship, greatly enveloped Vibhisana. He loudly bewailed Ravana.
१८.२
भूमौ शेते दशग्रीवो महार्हशयनोचितः ।
नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥
नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥
Karandikar
Accustomed to a very costly bed, Ravana lies on the ground ; he does not look at my distressed self, nor address a word.
१८.३
विपाकोऽयं दश-ग्रीव ! संदृष्टोऽनागतो मया ।
त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥
त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥
Karandikar
'(When) this consequence had not (yet) come, Oh Ravana, (it) was fully foreseen by me ; on that account, you were told beneficial things; why did you not dispel (your) anger ?
१८.४
भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः ।
तान्मदान्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम् ॥
तान्मदान्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम् ॥
Karandikar
Misfortunes soon overtake and riches bypass those who, through vanity, do not abide by the opinion of those that speak out what is just."
१८.५
अपथ्यमायतौ लोभादामनन्त्यनुजीविनः ।
प्रियं शृणोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥
प्रियं शृणोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥
Karandikar
Dependents, through avarice , consent to that which is unwholesome in future. Riches do not accrue to him who listens from them (only) to the agreeable."
१८.६
प्राज्ञास्तेजस्विनः सम्यक्पश्यन्ति च वदन्ति च ।
तेऽवज्ञाता महाराज क्लाम्यन्ति विरमन्ति च ॥
तेऽवज्ञाता महाराज क्लाम्यन्ति विरमन्ति च ॥
Karandikar
The brilliant and intelligent perceive properly and (then) speak out. (When) disregarded, they, oh great King, get depressed and indifferent.
१८.७
लेढि भेषजवन्नित्यं यः पथ्यानि कटून्यपि ।
तदर्थं सेवते चाऽऽप्तान्कदाचिन्न स सीदति ॥
तदर्थं सेवते चाऽऽप्तान्कदाचिन्न स सीदति ॥
Karandikar
He who always enjoys (consumes), beneficial (advice), like medicine, though bitter and, for that purpose, resorts to well-wishers, never perishes.
१८.८
सर्वस्य जायते मानः स्वहिताच्च प्रमाद्यति ।
वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति ॥
वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति ॥
Karandikar
'In prosperity, everybody breeds pride, commits mistakes regarding ones own welfare and resorts to the unwholesome. On that account a man perishes.
१८.९
द्वेष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् ।
वैरायते महद्भिश्च शीयते वृद्धिमानपि ॥
वैरायते महद्भिश्च शीयते वृद्धिमानपि ॥
Karandikar
Even a prosperous (person) suffers a downfall if he mostly hates virtues, does not cherish anybody and harbours enmity towards the great
१८.१०
समाश्वसिमि केनाऽहं कथं प्राणिमि दुर्गतः ।
लोकत्रयपतिर्भ्राता यस्य मे स्वपिति क्षितौ ॥
लोकत्रयपतिर्भ्राता यस्य मे स्वपिति क्षितौ ॥
Karandikar
"By whom may be reassured, whose brother, the lord of the three worlds, lies (dead) on the ground ? How may I, ill-fated, live ?
१८.११
अहो जागर्ति कृच्छ्रेषु दैवं यद्बलभिज्जितः ।
लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च ॥
लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च ॥
Karandikar
Alas ! Fate wakes up during difficulties; for, the defeaters of Indra, my kinsmen, roll, get drenched and sleep on the ground.
१८.१२
शिवाः कुष्णन्ति मांसानि भूमिः पिबति शोणितम् ।
दशग्रीवसनाभीनां समदन्त्यामिषं खगाः ॥
दशग्रीवसनाभीनां समदन्त्यामिषं खगाः ॥
Karandikar
Jackals pull out the flesh, the earth sucks the blood (and) birds feast on the meat of the couterine brothers of Ravana.
१८.१३
येन पूतक्रतोर्मूर्ध्नि स्थीयते स्म महाऽऽहवे ।
तस्याऽपीन्द्रजितो दैवाद्ध्वांक्षैः शिरसि लीयते ॥
तस्याऽपीन्द्रजितो दैवाद्ध्वांक्षैः शिरसि लीयते ॥
Karandikar
'Due to Fate, crows are roosting on the head of even that Indrajit by whom, in a great battle, (his) foot was laid on the head of Indra.
१८.१४
स्वर्भानुर्भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः ।
अभ्युपैति पुनर्भूतिं रामग्रस्तो न कश्चन ॥
अभ्युपैति पुनर्भूतिं रामग्रस्तो न कश्चन ॥
Karandikar
"Rahu who has finished his daily meal (routine), spits out the swallowed Sun ; (but) none eclipsed by Rama attains prosperity again.
१८.१५
त्वमजानन्निदं राजन्नीडिषे स्म स्वविक्रमम् ।
दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ॥
दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ॥
Karandikar
"Unaware of this, you, Oh King, used to eulogise your own valour, did not desire to give back Sita and did not exercise control on (your) passions.
१८.१६
मन्त्रे जातु वदन्त्यज्ञास्त्वं तानप्यनुमन्यसे ।
कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः ॥
कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः ॥
Karandikar
"Sometime, ignorant persons speak to you in counsel and you approve of them ; how indeed do you not understand your own welfare therein (in those matters) ?
१८.१७
अपृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम् ।
न करोमीतिपौलस्त्य तदा मोहात्त्वमुक्तवान् ॥
न करोमीतिपौलस्त्य तदा मोहात्त्वमुक्तवान् ॥
Karandikar
Indeed, not consulted (by you), your maternal grand father spoke to you, in counsel, about your own welfare ; at that time, On Ravana, through infatuation, you said, I shall not do (that)'.
१८.१८
त्वं स्म वेत्थ महाराज ! यत्स्माऽऽह न विभीषनः ।
पुरा त्यजति यत्क्रुद्दो मां निराकृत्य संसदि ॥
पुरा त्यजति यत्क्रुद्दो मां निराकृत्य संसदि ॥
Karandikar
''Oh great king, you did not understand what Vibhisapa said; for, (being) enraged, you, having repudiated me in the assembly, dismissed me in days gone by.
१८.१९
हविर्जक्षिति निःशङ्को मखेषु मधवानसौ ।
प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः ॥
प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः ॥
Karandikar
(Now), that dauntless Indra eats oblations in the sacrifice; the wind blows at its own will and the sun rises (at its will).
१८.२०
धनानामीशते यक्षा यमो दाम्यति राक्षसान् ।
तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना ॥
तनोति वरुणः पाशमिन्दुनोदीयतेऽधुना ॥
Karandikar
''Yaksas exercise control over wealth and Yama restrains the demons; varupa spreads (his) noose and the moon rises (at its will).
१८.२१
शाम्यत्यृतुसमाहारस्तपस्यन्ति वनौकसः ।
नो नमस्यन्ति ते बन्धून्वरिवस्यन्ति नाऽमराः ॥
नो नमस्यन्ति ते बन्धून्वरिवस्यन्ति नाऽमराः ॥
Karandikar
'The concomitance of the seasons ends; the forest dwellers practise penance ; the gods do not salute or wait upon your kinsmen.
१८.२२
श्रीर्निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः ।
न वेद तन्न यस्याऽस्ति मृते त्वयि विपर्ययः ॥
न वेद तन्न यस्याऽस्ति मृते त्वयि विपर्ययः ॥
Karandikar
The Goddess of wealth is displeased with Laika ; prosperities fade away; I know not anything which does not attain a reverse when you are dead.
१८.२३
शक्तिं संस्वजते शक्रो गोपायति हरिः श्रियम् ।
देववन्द्यः प्रमोदन्ते चित्रीयन्ते घनोदयाः ॥
देववन्द्यः प्रमोदन्ते चित्रीयन्ते घनोदयाः ॥
Karandikar
'Indra wields (his) Sakti , visnu protects Laksmi, the captive goddesses rejoice and the eminences of the clouds become variegated.
१८.२४
बिभ्रत्यस्त्राणि साऽमर्षा रणकाम्यन्ति चाऽमराः ।
चकासति च मांसाऽदां तथारन्ध्रेषु जाग्रति ॥
चकासति च मांसाऽदां तथारन्ध्रेषु जाग्रति ॥
Karandikar
The enraged gods wield weapons and wish for a battle; they blaze and are also wakeful (watchful) about the weak spots of the demons.
१८.२५
चञ्चूर्यतेऽभितो लङ्कामस्मांश्चाऽप्यतिशेरते ।
भूमयन्ति स्वसामर्थ्यं कीर्तिं नः कनयन्ति च ॥
भूमयन्ति स्वसामर्थ्यं कीर्तिं नः कनयन्ति च ॥
Karandikar
"They ride intentionally around Lanka and outdo us; they augment their strength and lessen our reputation
१८.२६
दिशो व्यष्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम् ।
क्षोदयन्ति च नः क्षुद्रा हसन्ति त्वां विपद्गतम् ॥
क्षोदयन्ति च नः क्षुद्रा हसन्ति त्वां विपद्गतम् ॥
Karandikar
'Puffed up with pride, they occupy the quarters, give up the limitations laid down by you ; and (those) mean ones will call us mean and jeer at you who have fallen into disaster.
१८.२७
शमं शमं नभस्वन्तः पुनन्ति परितो जगत् ।
उज्जिहीषे महाराज त्वं प्रशान्तो न किं पुनः ॥
उज्जिहीषे महाराज त्वं प्रशान्तो न किं पुनः ॥
Karandikar
Calming down incessantly, the winds purify the world all around . Why do you, oh great king, (though) dead (calmed) not get revived again ?
१८.२८
प्रोर्णोति शोकस्चित्तं मे सत्वं संशाम्यतीव मे ।
प्रमार्ष्टि दुःखमालोकं मुञ्चाम्यूर्जं त्वया विना ॥
प्रमार्ष्टि दुःखमालोकं मुञ्चाम्यूर्जं त्वया विना ॥
Karandikar
''Grief envelopes my mind; my spirit, as though, ebbs; affiliction obliterates light ; without you I lose (my) prowess,
१८.२९
केन संविद्रतेनाऽन्यस्त्वत्तो बान्धववत्सलः ।
विरौमि शून्ये प्रोर्णौमि कथं मन्युसमुद्भवम् ॥
विरौमि शून्ये प्रोर्णौमि कथं मन्युसमुद्भवम् ॥
Karandikar
Who do not know well that there is none more affectionate to (his) kinsmen, than you ? I lament in void. How may I conceal the uprise of grief ?
१८.३०
रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वया ।
प्रमाणं नोपकाराणामवगच्छामि यस्य ते ॥
प्रमाणं नोपकाराणामवगच्छामि यस्य ते ॥
Karandikar
I lament my orphaned self, (being) separated from my brother, that you, for whose obligation I know no measure.
१८.३१
नेदानीं शक्रयक्षेन्द्रौ बिभीतो न दरिद्रितः ।
न गर्वं जहितो दृप्तौ न क्लिश्नीतो दशाऽऽनन ॥
न गर्वं जहितो दृप्तौ न क्लिश्नीतो दशाऽऽनन ॥
Karandikar
Now Indra and Kubera do not fear, nor become poor, nor give up (their) vanity. Oh Ravana, the two arrogant ones do not worry (get distressed)
१८.३२
त्वयाऽपि नाम रहिताः कार्याणि तनुमो वयम् ।
कुर्मश्च जीविते बुद्धिं धिक्तृष्णां कृतनाशिनीम् ॥
कुर्मश्च जीविते बुद्धिं धिक्तृष्णां कृतनाशिनीम् ॥
Karandikar
Indeed, separated even from you, we carry on our activity and have the intention to live ; fie upon ungrateful greed.
१८.३३
तृणेह्मि देहमात्मीयं ।
त्वं वाचं न ददासि चेत् ।
द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव ॥
त्वं वाचं न ददासि चेत् ।
द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव ॥
Karandikar
If you do not give me a word (speak to me), I shall destroy my body ; for (the reason of their) being remembered, your virtues aggravate my grief.
१८.३४
उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन् ।
नेदयत्यासनं को मे को हि मे वदति प्रियम् ॥
नेदयत्यासनं को मे को हि मे वदति प्रियम् ॥
Karandikar
''Who, having removed his own garland, will garland me, smiling ? Who will pull my seat closer ; who will speak delightful (words) to me (and when ) ?
१८.३५
न गच्छामि पुरा लङ्का मायुर्यावद्दधाम्यहम् ।
कदा भवति मे प्रीतिस्त्वां पश्यामि न चेदहम् ॥
कदा भवति मे प्रीतिस्त्वां पश्यामि न चेदहम् ॥
Karandikar
''So long as I sustain my life, I shall not, in future, go to (the city of) Lanka ? When can I have delight if I do not see you ?
१८.३६
ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः ।
मन्त्रे स्म हितमाख्यामि न करोमि तवाऽप्रियम् ॥
मन्त्रे स्म हितमाख्यामि न करोमि तवाऽप्रियम् ॥
Karandikar
In over a muhurta shall I die, I who am afflicted and whose kinsmen are killed. In (my) counsel, I had told (what was) beneficial; I did nothing undesirable to you.”
१८.३७
अन्तःपुराणि पौलस्त्यं पौराश्च भृशदुःखिताः ।
संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे ॥
संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे ॥
Karandikar
Having heard (of) Ravana to have been killed by Rama in battle, the ladies of the harem and the excessively grief-sticken citizens ran (to the battle-field).
१८.३८
मूर्धजान्स्म विलुञ्चन्ति क्रोशन्ति स्माऽतिविह्वलम् ।
अधीयन्त्युपकाराणां मुहुर्भर्तुः प्रमन्यु च ॥
अधीयन्त्युपकाराणां मुहुर्भर्तुः प्रमन्यु च ॥
Karandikar
(The wives) pulled out (their) hair, wept in extreme distress and incessantly recollected the obligation of (their) husband, with enhanced grief.
१८.३९
रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च ।
" ।
भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम् ॥
" ।
भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम् ॥
Karandikar
The citizens saluted Ravana and wept with tears. Thereafter Rama addressed a speech to the distressed Vibhisana :
१८.४०
दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पित्न् ।
युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि ॥
युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि ॥
Karandikar
Why do you lament the charitable sacrificer who trampled over the heads of his enemies, who invariably satiated the manes, who was never defeated or distressed in a battle ? (Or who was injured and slain in a fight ?)
१८.४१
बोभवीति न सम्मोहो व्यसने स्म भवादृशाम् ।
किं न पश्यसि सर्वोऽयं जनस्त्वामवलम्बते ॥
किं न पश्यसि सर्वोऽयं जनस्त्वामवलम्बते ॥
Karandikar
Excessive bewilderment in difficulty never arises in (persons) such as you. Do you not see that all these people depend upon you ?
१८.४२
त्वमर्हसि भ्रातुरनन्तराणि
कर्तुं जनस्याऽस्य च शोकभङ्गम् ।
धुर्ये विपन्ने त्वयि राज्यभारो
मज्जत्यनूढः क्षणदाचरेन्द्र ॥
कर्तुं जनस्याऽस्य च शोकभङ्गम् ।
धुर्ये विपन्ने त्वयि राज्यभारो
मज्जत्यनूढः क्षणदाचरेन्द्र ॥
Karandikar
''You deserve to perform the post-death rites of your brother and the dissipation of the grief of these people. Oh Lord of demons, if you, who is the leader, become distraught, the burden of the kingdom, being unsustained, will collapse."
॥ इति अष्टादशः सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.