Loading data... On slow networks this could take a few minutes.
100%

आयासानविचिन्तयन्नगणयल्लाभं ततः किञ्चिद-
प्यम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः ।
तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं
मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ॥

अन्वयः AI कीर्ति-मात्र-शरणः धाराधरः आयासान् अविचिन्तयन्, ततः किञ्चित् लाभम् अपि अगणयन्, सर्वतः अम्भः मुञ्चति। लोकः तत् यत्नात् उपयुज्य दातुः शाश्वतम् यशः वर्धयतु वा, मौढ्यात् एतत् उपेक्ष्य नाशयतु वा, ततः लोकः प्रमाणम्।
Summary AI The cloud, whose only refuge is fame, releases water everywhere, not thinking of the efforts involved and not counting any gain from it. The world is the authority thereafter: either it may use that water diligently and enhance the giver's eternal fame, or, out of foolishness, neglect and destroy it.
पदच्छेदः AI
आयासान्आयास (२.३) efforts
अविचिन्तयन्अविचिन्तयत् (वि√चिन्त्+शतृ, १.१) not thinking of
अगणयन्अगणयत् (√गण्+शतृ, १.१) not counting
लाभम्लाभ (२.१) gain
ततःततः from it
किञ्चित्किञ्चित् any
अपिअपि even
अम्भःअम्भस् (२.१) water
मुञ्चतिमुञ्चति (√मुच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) releases
कीर्तिमात्रशरणःकीर्तिमात्रशरण (१.१) whose only refuge is fame
धाराधरःधाराधर (१.१) the cloud
सर्वतःसर्वतः everywhere
तत्तद् (२.१) that
यत्नात्यत्न (५.१) with effort
उपयुज्यउपयुज्य (उप√युज्+ल्यप्) having used
वर्धयतुवर्धयतु (√वृध् +णिच् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may increase
वावा or
दातुःदातृ (६.१) of the giver
यशःयशस् (२.१) fame
शाश्वतम्शाश्वत (२.१) eternal
मौढ्यात्मौढ्य (५.१) out of foolishness
एतत्एतद् (२.१) this
उपेक्ष्यउपेक्ष्य (उप√ईक्ष्+ल्यप्) having neglected
नाशयतुनाशयतु (√नश् +णिच् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) may destroy
वावा or
लोकःलोक (१.१) the world
प्रमाणम्प्रमाण (१.१) is the authority
ततःततः thereafter
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
या सा वि चि न्त न्न ल्ला भं तः कि ञ्चि
प्य म्भो मु ञ्च ति की र्ति मा त्र णो धा रा रः र्व तः
द्य त्ना दु यु ज्य र्ध तु वा दा तु र्य शः शा श्व तं
मौ ढ्या दे दु पे क्ष्य ना तु वा लो कः प्र मा णं तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.