अस्पृश्योऽस्तु मलीमसोऽस्त्वनियताहारोऽस्त्वतोऽप्युद्भटै-
र्दोषैरस्तु परःशतैः परिवृतः काकस्ततः का क्षतिः ।
भुङ्क्ते भोज्यमुपस्थितं समुपहूयैव स्वयं बान्धवा-
न्यः सीदन्क्षुधया विचिन्तय ततो धन्यश्च पुण्यश्च कः ॥

अन्वयः AI काकः अस्पृश्यः अस्तु, मलीमसः अस्तु, अनियत-आहारः अस्तु, अतः अपि उद्भटैः परःशतैः दोषैः परिवृतः अस्तु, ततः का क्षतिः? यः क्षुधया सीदन् (अपि) स्वयम् उपस्थितम् भोज्यम् बान्धवान् समुपहूय एव भुङ्क्ते, ततः धन्यः च पुण्यः च कः (अस्ति)? विचिन्तय।
Summary AI Let the crow be untouchable, dirty, and have an unregulated diet; let it be surrounded by hundreds of other glaring faults. What harm is there in that? He who, even when suffering from hunger, calls his relatives and only then eats the food before him—think, who is more blessed and virtuous than him?
पदच्छेदः AI
अस्पृश्यःअस्पृश्य (√स्पृश्+ण्यत्, १.१) untouchable
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let it be
मलीमसःमलीमस (१.१) dirty
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let it be
अनियताहारःअनियतआहार (१.१) one with an unregulated diet
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let it be
अतःअतः than this
अपिअपि even
उद्भटैःउद्भट (३.३) by glaring
दोषैःदोष (३.३) faults
अस्तुअस्तु (√अस् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let it be
परःशतैःपरःशत (३.३) by more than a hundred
परिवृतःपरिवृत (परि√वृ+क्त, १.१) surrounded
काकःकाक (१.१) the crow
ततःततः from that
काकिम् (१.१) what
क्षतिःक्षति (१.१) harm
भुङ्क्तेभुङ्क्ते (√भुज् कर्तरि लट् (आत्मने.) प्र.पु. एक.) eats
भोज्यम्भोज्य (√भुज्+ण्यत्, २.१) food
उपस्थितम्उपस्थित (उप√स्था+क्त, २.१) that is present
समुपहूयसमुपहूय (सम्+उप√ह्वे+ल्यप्) having called together
एवएव only
स्वयम्स्वयम् himself
बान्धवान्बान्धव (२.३) relatives
यःयद् (१.१) who
सीदन्सीदत् (√सद्+शतृ, १.१) suffering
क्षुधयाक्षुध् (३.१) from hunger
विचिन्तयविचिन्तय (वि√चिन्त् कर्तरि लोट् (परस्मै.) म.पु. एक.) think
ततःततः than him
धन्यःधन्य (१.१) blessed
and
पुण्यःपुण्य (१.१) virtuous
and
कःकिम् (१.१) who
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
स्पृ श्यो ऽस्तु ली सो ऽस्त्व नि ता हा रो ऽस्त्व तो ऽप्यु द्भ टै
र्दो षै स्तु रः तैः रि वृ तः का स्त तः का क्ष तिः
भु ङ्क्ते भो ज्य मु स्थि तं मु हू यै स्व यं बा न्ध वा
न्यः सी न्क्षु या वि चि न्त तो न्य श्च पु ण्य श्च कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.