Loading data... On slow networks this could take a few minutes.
100%

उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे
तत्त्वे तावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं
किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥

अन्वयः AI उष्णद्युतेः उद्गमे कियन्ति वा कुसुमानि न उन्मीलन्ति? तावति तत्त्वे (सति), (ताम्) बन्धुः इति, अतिसखी इति, आदित्यकान्ता इति च एवम् त्रिलोक-विदिताम् कीर्तिम् दत्तवताम् कवीनाम् ऋणम् इयम् नालीकिनी जनुषाम् कोट्या अपि किम् कृत्वा अपाकरोतु?
Summary AI How many flowers do not bloom at the rising of the sun? Despite this fact, what can this lotus plant do to repay the debt to the poets who gave it such world-renowned fame by calling it "kinsman," "dear friend," and "beloved of the sun," even with a crore of births?
पदच्छेदः AI
उन्मीलन्तिउन्मीलन्ति (उद्√मील् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bloom
कियन्तिकियत् (१.३) how many
वावा indeed
not
कुसुमानिकुसुम (१.३) flowers
उष्णद्युतेःउष्णद्युति (६.१) of the sun
उद्गमेउद्गम (७.१) at the rising
तत्त्वेतत्त्व (७.१) fact
तावतितावत् (७.१) this much
बन्धुःबन्धु (१.१) kinsman
इतिइति as
अतिसखीअतिसखि (१.१) dear friend
इतिइति as
आदित्यकान्ताआदित्यकान्ता (१.१) beloved of the sun
इतिइति as
and
कीर्तिंकीर्ति (२.१) fame
दत्तवतांदत्तवत् (√दा+क्तवतु, ६.३) of those who gave
त्रिलोकविदिताम्त्रिलोकविदित (२.१) world-renowned
एवंएवम् such
कवीनाम्कवि (६.३) of the poets
ऋणंऋण (२.१) the debt
किंकिम् (२.१) what
कृत्वाकृत्वा (√कृ+क्त्वा) by doing
इयम्इदम् (१.१) this
अपाकरोतुअपाकरोतु (अप+आ√कृ कर्तरि लोट् (परस्मै.) प्र.पु. एक.) can it repay
जनुषांजनुस् (६.३) of births
कोट्याकोटि (३.१) with a crore
अपिअपि even
नालीकिनीनालीकिनी (१.१) lotus plant
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
न्मी न्ति कि न्ति वा कु सु मा न्यु ष्ण द्यु ते रु द्ग मे
त्त्वे ता ति न्धु रि त्य ति खी त्या दि त्य का न्ते ति
की र्तिं त्त तां त्रि लो वि दि ता मे वं वी ना मृ णं
किं कृ त्वे पा रो तु नु षां को ट्या पि ना ली कि नी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.