Loading data... On slow networks this could take a few minutes.
100%

मेघः कश्चिदचेतनः कियदपि स्वीकृत्य सिन्धोः पयः
कीर्तिं तस्य समुच्चिनोति कियतीं धर्मं कियच्छाश्वतम् ।
ब्रह्मज्ञस्तपसां निधिस्त्रिभुवनख्यातश्च कुम्भोद्भवः
सर्वस्वं विनियुज्य तस्य किमिव श्रेयः समापादयत् ॥

अन्वयः AI कश्चित् अचेतनः मेघः सिन्धोः कियत् अपि पयः स्वीकृत्य, तस्य कियतीम् कीर्तिम्, कियत् शाश्वतम् धर्मम् (च) समुच्चिनोति । ब्रह्मज्ञः तपसाम् निधिः त्रिभुवन-ख्यातः च कुम्भोद्भवः तस्य सर्वस्वम् विनियुज्य किम् इव श्रेयः समापादयत्?
Summary AI A certain inanimate cloud, taking just a little water from the ocean, accumulates so much fame for it and so much eternal merit. But the pot-born sage Agastya—knower of Brahman, a treasury of penances, and famed in the three worlds—what good did he accomplish for the ocean by consuming its entirety?
पदच्छेदः AI
मेघःमेघ (१.१) a cloud
कश्चित्कश्चित् (१.१) a certain
अचेतनःअचेतन (१.१) inanimate
कियत्कियत् (२.१) a little
अपिअपि even
स्वीकृत्यस्वीकृत्य (स्व√कृ+च्वि+क्त्वा) having taken
सिन्धोःसिन्धु (६.१) from the ocean
पयःपयस् (२.१) water
कीर्तिंकीर्ति (२.१) fame
तस्यतद् (६.१) for it
समुच्चिनोतिसमुच्चिनोति (सम्+उद्√चि कर्तरि लट् (परस्मै.) प्र.पु. एक.) accumulates
कियतींकियत् (२.१) so much
धर्मंधर्म (२.१) merit
कियत्कियत् (२.१) so much
शाश्वतम्शाश्वत (२.१) eternal
ब्रह्मज्ञःब्रह्मज्ञ (१.१) knower of Brahman
तपसांतपस् (६.३) of penances
निधिःनिधि (१.१) a treasury
त्रिभुवनख्यातःत्रिभुवनख्यात (१.१) famed in the three worlds
and
कुम्भोद्भवःकुम्भोद्भव (१.१) the pot-born sage (Agastya)
सर्वस्वंसर्वस्व (२.१) its entirety
विनियुज्यविनियुज्य (वि+नि√युज्+ल्यप्) having consumed
तस्यतद् (६.१) for it
किम्किम् (२.१) what
इवइव indeed
श्रेयःश्रेयस् (२.१) good
समापादयत्समापादयत् (सम्+आ√पद् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) did accomplish
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
मे घः श्चि चे नः कि पि स्वी कृ त्य सि न्धोः यः
की र्तिं स्य मु च्चि नो ति कि तीं र्मं कि च्छा श्व तम्
ब्र ह्म ज्ञ स्त सां नि धि स्त्रि भु ख्या श्च कु म्भो द्भ वः
र्व स्वं वि नि यु ज्य स्य कि मि श्रे यः मा पा यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.