Loading data... On slow networks this could take a few minutes.
100%

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।
प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥

अन्वयः AI सा अलीकवचनैः आलीजनैः यावन्ति पदानि शिक्षिता, तावन्ति एव कृतागसः पत्युः पुरः द्रुततरं व्याहृत्य, पुरतः मनसिजस्य आज्ञा यथा तथा वर्तितुं प्रारब्धा । प्रेम्णः मौग्ध्यविभूषणस्य एषः कः अपि सहजः कान्तः क्रमः ।
Summary AI She uttered before her guilty husband only as many words of feigned anger as she was taught by her friends. Then, she began to act according to the commands of the god of love. This is a certain natural and charming course of love, which is adorned by innocence.
पदच्छेदः AI
सातद् (१.१) She
यावन्तियावत् (२.३) as many
पदानिपद (२.३) words
अलीकवचनैःअलीकवचन (३.३) with feigned words
आलीजनैःआलीजन (३.३) by her friends
शिक्षिताशिक्षित (√शिक्ष्+क्त, १.१) was taught
तावन्तितावत् (२.३) that many
एवएव only
कृतागसःकृतागस् (६.१) guilty
द्रुततरम्द्रुततरम् very quickly
व्याहृत्यव्याहृत्य (वि+आ√हृ+ल्यप्) having uttered
पत्युःपति (६.१) of her husband
पुरःपुरस् before
प्रारब्धाप्रारब्ध (प्र+आ√रभ्+क्त, १.१) she began
पुरतःपुरतस् before
यथायथा as
मनसिजस्यमनसिज (६.१) of the god of love
आज्ञाआज्ञा (१.१) the command
तथातथा so
वर्तितुम्वर्तितुम् (√वृत्+तुमुन्) to act
प्रेम्णःप्रेमन् (६.१) of love
मौग्ध्यविभूषणस्यमौग्ध्यविभूषण (६.१) which is adorned by innocence
सहजःसहज (१.१) natural
कःकिम् (१.१) a certain
अपिअपि indeed
एषःएतद् (१.१) this
कान्तःकान्त (१.१) charming
क्रमःक्रम (१.१) course
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
सा या न्ति दा न्य ली नै रा ली नैः शि क्षि ता
ता न्त्ये कृ ता सो द्रु रं व्या हृ त्य त्युः पु रः
प्रा ब्धा पु तो था सि स्या ज्ञा था र्ति तुं
प्रे म्णो मौ ग्ध्य वि भू स्य जः को ऽप्ये का न्तः क्र मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.