श्रीपारशर उवाच ।
२.९.१
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥
Summary
AI
In the sky, the stellar form of Lord Hari, shaped like a porpoise (śiśumāra), contains Dhruva situated at the end of its tail.
२.९.२
सैष भ्रमन्भ्रामयति चन्द्रादित्यादिकान्ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥
Summary
AI
As Dhruva rotates, he causes the planets like the Moon and Sun to revolve. Following his rotation, the constellations move along like a wheel.
२.९.३
सूर्याचन्द्रमसौ तारा नक्षत्रामि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥
Summary
AI
The Sun, Moon, stars, and constellations, along with the planets, are bound to Dhruva by ligatures composed of celestial currents of air.
२.९.४
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।
नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥
नारायणो ऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥
Summary
AI
Nārāyaṇa, the refuge of all luminaries, resides personally as the support in the heart of that celestial porpoise-shaped form of lights.
२.९.५
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥
स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥
Summary
AI
Dhruva, the son of Uttānapāda, having worshiped the Lord of the world, is stationed as a star at the tail of the celestial porpoise.
२.९.६
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥
Summary
AI
Janārdana, the overseer of all, is the support of the śiśumāra; the śiśumāra supports Dhruva, and the Sun is stationed within Dhruva.
२.९.७
तदाधारं जगच्चेदं ।
सदेवासुरमानुषम् ॥
सदेवासुरमानुषम् ॥
Summary
AI
This entire world, including gods, demons, and humans, is supported by that celestial arrangement.
२.९.८
येन विप्रविधानेन तन्ममैकमनाः शृणु ।
विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥
विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥
Summary
AI
Listen with focus, O Brāhmaṇa, to how this works: The Sun (Vivasvān) absorbs watery essences for eight months and rains them down; from that water comes food, and from food, the entire world is sustained.
२.९.९
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जतम् ।
सोमं पुष्मात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥
सोमं पुष्मात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपते ऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥
Summary
AI
The Sun draws water from the earth with sharp rays and nourishes the Moon (Soma). Then, the Moon distributes that water through ethereal tubes into clouds composed of smoke, fire, and wind.
२.९.१०
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः ॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः ॥
Summary
AI
Clouds (abhra) are so called because water does not fall from them prematurely. O Maitreya, the pure waters within the clouds fall only when impelled by the wind after undergoing a seasonal transformation.
२.९.१२
आकाशगङ्गासलिलं तथादायगभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥
Summary
AI
Similarly, the Sun takes water from the heavenly Ganges (Ākāśagaṅgā) and casts it directly onto the earth through his rays without the intervention of clouds.
२.९.१३
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥
Summary
AI
O best of the twice-born, a mortal whose mire of sins is washed away by the touch of that celestial water does not go to hell; it is known as a divine bath.
२.९.१४
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥
Summary
AI
The water that falls from the sky without clouds while the Sun is visible is the water of the celestial Ganges, cast down by the Sun's rays.
२.९.१५
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥
दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥
Summary
AI
Rain falling from the sky when the Sun is visible during odd-numbered asterisms beginning with Kṛttikā is understood to be the water of the Ganges shed by the elephants of the quarters.
२.९.१६
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥
Summary
AI
In even-numbered asterisms, the water that falls from the sky is that which was absorbed by the Sun's rays and is then discharged by them.
२.९.१७
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥
Summary
AI
O great sage, both types of celestial water are exceedingly merit-yielding and remove the fear of sin from humans; they constitute a divine bath.
२.९.१८
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥
पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥
Summary
AI
The water released by clouds, O Brāhmaṇa, nourishes all medicinal herbs for the life of living beings; it is indeed nectar.
२.९.१९
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकन्तः प्रजानां द्विज जायते ॥
साधकः फलपाकन्तः प्रजानां द्विज जायते ॥
Summary
AI
O Brāhmaṇa, when the entire multitude of herbs is brought to great growth by that water, it serves the needs of living beings until the ripening of fruit.
२.९.२०
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥
Summary
AI
With the resulting produce, humans guided by the scriptures perform daily sacrifices as prescribed, and through those sacrifices, they nourish the gods.
२.९.२१
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥
Summary
AI
Thus, all sacrifices, the Vedās, the social orders headed by the brāhmaṇas, all celestial hosts, and all multitudes of living beings are sustained by rain.
२.९.२२
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥
Summary
AI
O best of sages, this entire universe is sustained by rain through which food is produced; that rain itself is brought forth by the sun.
२.९.२३
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुपारो ऽसौ सो ऽपि नारायणात्मकः ॥
ध्रुवस्य शिशुपारो ऽसौ सो ऽपि नारायणात्मकः ॥
Summary
AI
O most excellent of sages, Dhruva is the foundation of the sun; the celestial Śiśumāra is the support of Dhruva, and that Śiśumāra is identical with Nārāyaṇa.
२.९.२४
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥
Summary
AI
Within the heart of that Śiśumāra resides Nārāyaṇa, the eternal primeval being and the sustainer of all creatures.
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे नवमो ऽध्यायः ।
॥ इति द्वितीयांशे नवमोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.