॥ अथ अभियोगविधिप्रकाशः ॥
अथ
शृङ्गारप्रकाशे अष्टाविंशः प्रकाशः
अभियोगविधिप्रकाशः
(दूतविशेषाः)
स्वयं दर्शनस्यालाभे दूतसम्प्रेषणादयः। तेषु दूतसम्प्रेषणं नायकयोः कर्म। तदज्ञातदूतविशेषकर्मणोः न घटत इति दूतविशेषाः दूतकर्माणि च प्रागेवाभिधीयन्ते। तत्र जात्यादियोगाद् दूतविशेषाश्चतुरशीतिः प्रायशो भवन्ति। यथोच्यते—
जातिर्गुणः क्रिया द्रव्यं सम्बन्धोऽर्थः प्रयोजनम्।
प्रयोगो योग्यता स्त्रीत्वं दूतभेदेषु हेतवः॥ १॥
इति। तेषु—
१. जातेः — देवः, मनुष्यः, किन्नरः, वानरः, शुकः, शारिका, पारावतः, हंस इति।
२. गुणतः — पितृपैतामहं, अदृष्टवैकृतं, अविसंवादकं, अलोभशीलं, अपरिहार्यं, अमन्त्रविस्रावि, धार्मिकं, भरसहिष्णु चेति मित्रसंपत् (इति)।
३. क्रियातः — सहपांसुक्रीडितं, उपकारसम्बद्धं, जन्मान्तरार्जितं, सहाध्यायि, समान— शीलव्यसनं, यश्चास्य रहस्यानि मर्माणि विद्यात् (रहस्यमर्मवेदी), यस्य च विद्यात् (विदितमर्मरहस्या), धात्र्यपत्यसहसंवृद्धम् (सहसंवृद्धा) इति।
४. द्रव्यतः — मालाकार—ताम्बूलिक—गान्धिक—सौरिक—पीठमर्द—विट—विदूषक— पाषण्डिनः, मित्राणि इति।
५. सम्बन्धतः — गुरुः, सखा, शिष्यः, आत्मा, ज्ञातिः, औरसः, कनीयान् इति।
६. अर्थतः — अर्थः,अनर्थप्रतिघातः, सहार्थता, प्राप्‍तिः, प्रतारणं, आनृण्यं, कीर्तिः, प्रतीतिः, इत्यमीषामास्थेयानि (इति)।
७. प्रयोजनतः— दया, स्‍नेहः, कुतूहलं, अभिप्रायोपलम्भः, पूर्वप्रार्थना, अन्यतरप्रार्थना, शीलं, सङ्घर्ष इति अमीषामास्थेयानि (इति)।
८. प्रयोगतः —प्रच्छन्नः, प्रकाशः, हीनः, उत्कृष्टः, उद्धतः, उदात्तः, धृष्टः, शठ इति।
९. योग्यतायाः — निसृष्टार्थः, परिमितार्थः, पत्रहारकः, मूकदूतः (इति)।
१०. स्त्रीत्वादि —ईक्षणिका, भिक्षुकी, सखी, धात्रेयिका, विधवा, दासी, शिल्पकारिका, शिल्पिनी इति। (कामसू. ५.४)
तेषु— विधवा जातिमद्भ‍यः; सखी गुणवद्भयः; धात्रेयिका क्रियावद्भ‍यः; भिक्षुकी द्रव्यनिमित्तेभ्यः; दासी सम्बन्धकृतेभ्यः; ईक्षणिका अर्थहेतुभ्यः; शिल्पकारिका प्रयोजनिकेभ्यः; शिल्पिनी प्रायोगिकेभ्यः प्रायेण इति। तत्र —
(१. जातेः —८)
१. देवाः सप्‍तर्षयः; यथा कुमारसम्भवे—(कुसं. ६.९४)
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥ २॥
२. मनुष्याः अविभवा भूपप्रभृतयः; हर्षचरिते यथा—
तस्य च सुता कुमारी रूपवती सर्वलक्षणोपेता।
तां स भवतः प्रयच्छति हच्छो प्रहिते सहास्माभिः(?)॥ ३॥
३. किन्नरमिथुनं चारुमत्यां यथा—
कनककुण्डलमण्डितगण्डया जघनदेशनिवेशितवीणया।
अमरराजपुरे वरकन्यया तव यशो विमलं परिगीयते॥ ४॥
४. वानरः हनूमान्; रामायणे यथा—(भट्टि. १०.३८)
तस्याधिवासे तनुरुत्सुकाऽसौ दृष्टा मया रामपतिः प्रमन्युः।
कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन॥ ५॥
५. शुकः जरत्कीरः; शूद्रककथायां हरिमतीवृत्तान्ते यथा—
जंवद णरवइ विणउ पआसइ तांवहि कीरु निरारुअ भासइ।
हारि लक्खजणजुत्तहो दिज्जउ संखअत्त—वणिउत्तहो॥ ६॥
(यावन् नरपतिर्विनयं प्रकाशयति तावत् कीरः निश्चितं भाषते।
हारः लक्षजनयुक्ताय दीयतां शङ्खदत्त—वणिक्‌पुत्राय॥)
६. शारिका मेधाविनी ; बृहत्कथायां नन्दप्रबोधने यथा—
किं क्रन्दसि निराक्रान्ता नन्दनो राजतस्करः।
अमृते विषमुत्पन्नं यतो राजा ततो भयम्॥ ७॥
७. पारावतस्समुद्रघोषः; त्रैलोक्यसुन्दर्यां यथा—
किं त्वं नैव यशोदया स्तुतवपुर्मार्गेण गाश्चारयन् किं वा नो भवता वराहवपुषा पृथ्वीयमभ्युद्ध‍ृता।
नो वा कं सबलं करोषि समरे विध्वस्तसैन्यं हठा— दित्थं वैबुधवन्दनीयमहिमा त्वं देव लक्ष्मीपतिः॥ ८॥
८. हंसौ हैमन्तकवसन्तकौ दमयन्त्यां नलोपगमने यथा—
प्रसार्य हस्तं निपुणेन तेन धृतस्तदैनं धृतविक्रमेण।
क्रमेण हंसो दमयन्तिकायाः सन्देशकं दिव्यगिराचचक्षे॥ ९॥
तेषां मध्ये मनुष्यः श्रेयान्। तस्यैव वक्ष्यमाणगुणादिसम्पद्‍योगात्। मित्रे हि दूतकर्म कामसूत्रकारः कीर्तयति—"यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायां विस्रब्धम् अशेषगुणयोगि मित्रम्। तत्र दूतकर्म" (कामसू. १.५)
मैत्री समानसुखदुःखानां, यथा मनुष्याणाम्। नैवं देवतिरश्‍चामिति निश्चयः। मनुष्या हि प्रायशः ॰ ॰ रुयुप्रभृतयः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि परित्यजन्ति, नरकमपि विशन्ति। न पुनर्देवाः तिर्यञ्चो वेति।
(२. गुणतः —८)
गुणवत्सु —
॥ इति अभियोगविधिप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.