न विभावयत्यनिशमक्षिगता-
मपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः
कथमीक्षते बहिरभीष्टतामाम् ॥

मल्लिनाथः नेति ॥ अनिशमक्षिगतां चक्षुःसंनिकृष्टामपि, द्वेष्यामिति च गम्यते । `द्वेष्ये त्वक्षिगतः` इत्यमरः । मामतिसमीपतया भवान्न विभावयति । `शेषे प्रथमः` (अष्टाध्यायी १.४.१०८ ) इति प्रथमपुरुषः । इन्द्रियसंनिकृष्टमपि न लक्ष्यत इति विरोधा. भासनार्थोऽपिशब्दः । परमार्थस्तु द्वेष्यत्वादतिसामीप्याच्चाविभावनं न चित्रमिति भावः । अभीष्टतमा पुनर्हदयस्थितां हृदयादनपेताम्, अन्तर्हितामिति च गम्यते । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवान् ईक्षते इदं तु चित्रम् । अतिसामीप्यव्यवधानस्यापि दर्शनप्रतिबन्धकत्वादिति भावः । प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते इतरदपरोक्षमपि परोक्षमेवेति तात्पर्यार्थः । विरोधाभासयोः संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि भा त्य नि क्षि ता
पि मां वा ति मी या
हृ स्थि ता पि पु नः रि तः
मी क्ष ते हि भी ष्ट ता माम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.