Loading data... On slow networks this could take a few minutes.
100%

मधुरान्नतभ्रू ललितं च दृशोः
सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं
स्फुचनृत्तलीलमभवत्सुतनोः ॥

मल्लिनाथः मधुरेति ॥ मधुरं मनोहरं यथा तथोन्नते उच्चलिते ध्रुवौ यस्मिंस्तन्मधुरोन्नतभ्रु । `गोस्त्रियोरुपसर्जनस्य` (१|२।४८) इति ह्रस्वत्वम् । १दृशोर्ललितं नयनचेष्टा&#३२; च सकरप्रयोग हस्ताभिनयसहितं तच्चतुरं च तद्वचश्च सुतनोः स्त्रियाः प्रकृतिस्थमेव स्वभावसिद्धमेव सदपि निपुणेन निपुणाचार्येणागमितमभ्यासितम् । अत एव स्फुटं प्रथितं यन्नृत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालंकारः । तया नर्तक्युपमा गम्यते
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
धु रा न्न भ्रू लि तं दृ शोः
प्र यो तु रं चः
प्र कृ ति स्थ मे नि पु णा मि तं
स्फु नृ त्त ली त्सु नोः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.