अवधीर्य धैर्यकलिता दयितं
विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं
न सहास्मि साहसमसाहसिकी ॥

मल्लिनाथः अवधीर्येति ॥ धैर्यकलिता कलितधैर्या सती । `वाहिताग्न्यादिषु` ( २।२। ३७) इति निष्ठायाः परनिपातः । दयितमवधीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि, तव किमिव गोप्यते निगृह्यते । न किंचिदित्यर्थः । किंतु कथ्यत एवेति कथयति । सहसा बलेन वर्तत इति साहसिकी । `ओजःसहोऽम्भसा वर्तते` (अष्टाध्यायी ४.४.२७ ) इति ठक् । सा न भवतीत्यसाहसिकी । अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साहसकृत्यं कर्तुम् । `शकधृष-` (३।४|६५) इत्यादिना तुमुन् । सहत इति सहा समर्था । पचाद्यच् । नास्मि । अत्रासाहसिकत्वस्य विशेषणगत्या साहसासहनहेतुत्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
धी र्य धै र्य लि ता यि तं
वि धे वि रो ते
गो प्य ते कि मि र्तु मि दं
हा स्मि सा सा सि की
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.