प्रतिभिद्य कान्तमपराधकृतं
यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः
कलयेदमानमनसं सखि माम् ॥

मल्लिनाथः प्रतिभिद्येत्यादि ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुनमयैवास्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितैव । पतिव्रतानां प्राणेश्वरचित्तानुवृत्तेधर्मत्वादिति भावः । किंतु हे सखि, ततोऽनुवृत्तेर्माममानमनसमभिमानहीनचित्तां कलयेन्मन्येत
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
प्र ति भि द्य का न्त रा कृ तं
दि ता स्य पु रे या
क्रि ते ऽनु वृ त्ति रु चि तै तः
ये मा सं खि माम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.