प्रत्यंसं विलुलितमूर्धजा चिराय
स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥
प्रत्यंसं विलुलितमूर्धजा चिराय
स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥
स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥
मल्लिनाथः
प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त त्त्यर्थेऽव्ययीभावः । विलुलितमूर्धजा, विकीर्णकेशा सती स्नानार्दं वपुः चिराय चिरमुदवापयन्निरवापयत् ।&#३२; अशोषयदिति यावत् । वयतेर्ण्यन्ताल्लजङ् । `अर्तिर्हि-` (७|३।३६) इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्रवम् । द्रवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः । `आपो द्रवाः सर्वाणि द्रवाणि तूदङ्मुखेन जुहोति` इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदित्यर्थः । `तिङश्च` (अष्टाध्यायी ५.३.५६ ) इति तमप् `किमेत्तिङ-` (अष्टाध्यायी ५.४.११ ) इत्यादिना तिङन्तादामुप्रत्ययः । `तद्धितश्वासर्वविभक्तिः` (१|१|३८) इत्यव्ययत्वम् । नाजानात् । वाक्यार्थः कर्म । तद्द्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्रोहार्द्रतामजानती स्नानार्द्रमेवेति मन्यमाना पुनःपुनर्वपुरुद्वापयन्त्येवास्त इति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवणक्रियायाः समानकर्तृकत्वात्पूर्वकालतानिर्वाहः । एषा च गर्वोत्सुक्यादिसंचारिसंकीर्णस्वेदरोमाञ्चादिसात्विकसं. पन्ना स्मिताद्यनुभाववती चेत्यनुसंधेयम् । अत्रोद्वापनरूपकारणे सति द्रवत्वनिवृत्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्रवत्वप्रतिपादनमुखेनाभिधानाद्विशेषोक्तिरलंकारः । `तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते` इति लक्षणात्
छन्दः
प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| प्र | त्यं | सं | वि | लु | लि | त | मू | र्ध | जा | चि | रा | य |
| स्ना | ना | र्द्रं | व | पु | रु | द | वा | प | य | त्कि | लै | का |
| ना | जा | ना | द | भि | म | त | म | न्ति | के | ऽभि | वी | क्ष्य |
| स्वे | दा | म्बु | द्र | व | म | भ | व | त्त | रां | पु | न | स्तत् |
| म | न | ज | र | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.