प्रत्यंसं विलुलितमूर्धजा चिराय
स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥

मल्लिनाथः प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त त्त्यर्थेऽव्ययीभावः । विलुलितमूर्धजा, विकीर्णकेशा सती स्नानार्दं वपुः चिराय चिरमुदवापयन्निरवापयत् ।&#३२; अशोषयदिति यावत् । वयतेर्ण्यन्ताल्लजङ् । `अर्तिर्हि-` (७|३।३६) इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्रवम् । द्रवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः । `आपो द्रवाः सर्वाणि द्रवाणि तूदङ्मुखेन जुहोति` इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदित्यर्थः । `तिङश्च` (अष्टाध्यायी ५.३.५६ ) इति तमप् `किमेत्तिङ-` (अष्टाध्यायी ५.४.११ ) इत्यादिना तिङन्तादामुप्रत्ययः । `तद्धितश्वासर्वविभक्तिः` (१|१|३८) इत्यव्ययत्वम् । नाजानात् । वाक्यार्थः कर्म । तद्द्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्रोहार्द्रतामजानती स्नानार्द्रमेवेति मन्यमाना पुनःपुनर्वपुरुद्वापयन्त्येवास्त इति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवणक्रियायाः समानकर्तृकत्वात्पूर्वकालतानिर्वाहः । एषा च गर्वोत्सुक्यादिसंचारिसंकीर्णस्वेदरोमाञ्चादिसात्विकसं. पन्ना स्मिताद्यनुभाववती चेत्यनुसंधेयम् । अत्रोद्वापनरूपकारणे सति द्रवत्वनिवृत्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्रवत्वप्रतिपादनमुखेनाभिधानाद्विशेषोक्तिरलंकारः । `तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते` इति लक्षणात्
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र त्यं सं वि लु लि मू र्ध जा चि रा
स्ना ना र्द्रं पु रु वा त्कि लै का
ना जा ना भि न्ति के ऽभि वी क्ष्य
स्वे दा म्बु द्र त्त रां पु स्तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.