Loading data... On slow networks this could take a few minutes.
100%

वासांसि न्यवसत यानि योषितस्ताः
शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि
स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥

मल्लिनाथः वासांसीति ॥ ताः योषितो यानि वासांसि न्यवसत निवसितवत्यः । `वस आच्छादने` इति धातोः कर्तरि लङ् । शुभ्राभ्राणां द्युतिरिव द्युतिर्येषां तैर्वासोभिर्मुदा नारीनिवसनानन्देनाहासीव हसितमिव । भावे लुङ् । स्नपनेन गलज्जलानि स्रवत्तोयानि यानि वासांसि अत्याक्षुस्त्यक्तवत्यः तैः शुचा स्थूला अश्रुस्नुतिर्येषां तैररोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलनक्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वा सां सि न्य या नि यो षि स्ताः
शु भ्रा भ्र द्यु ति भि हा सि तै र्मु दे
त्या क्षुः स्न ज्ज ला नि या नि
स्थू ला श्रु स्रु ति भि रो दिः तैः शु चे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.