श्लक्ष्णं यत्परिहितमेतयोः किलान्त-
र्धानार्थं तदुकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या
भासन्तर्दधतुरुरूदुकूलमेव ॥

मल्लिनाथः श्लक्ष्णमिति ॥ एतयोरूर्वोरन्तर्धानार्थं किल छादनार्थं श्लक्ष्णं स्निग्धं यद्दुकूलं परिहितमाच्छादितमुदकसेकेन संसक्तं संसृष्टं तत् दुकूलं कर्म । विमलतरौ नारीणा मुरू पीवरावूरू एव कर्तारौ समुल्लसन्त्या स्फुरन्त्या भासा निजकान्त्याऽन्तर्दधतुः छादितवन्तौ । तदेतद्भूषणमिति भावः । अत्र दुकूलस्योरूच्छादकत्वेऽपि तदभावोक्तेरसंबन्धेऽपि संबन्धरूपातिशयोक्तिः । तदपेक्षया चोर्वोर्दुकूलानाच्छादकयोराच्छादकत्वोक्तेरसंबन्धे संबन्धरूपातिशयोक्त्यानुप्राणितेति सजातीयसंकरः, तदनुप्राणितश्च विषमालंकार इति विजातीयसंकरः । तेन चोर्वोर्लोकोत्तरं लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
श्ल क्ष्णं त्प रि हि मे योः कि ला न्त
र्धा ना र्थं दु से क्त मू र्वोः
ना री णां वि रौ मु ल्ल न्त्या
भा न्त र्द तु रु रू दु कू मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.