Loading data... On slow networks this could take a few minutes.
100%

कुर्वद्भिमुखरुचिमुज्जवलामजस्रं
यैस्तोयैरसिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेरकारि दूरा-
त्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥

मल्लिनाथः कुर्वद्भिरिति ॥ मुखरुचिं मुखकान्तिं उज्वलां कुर्वद्भिर्यैस्तोयैर्विलासी विलसनशीलः कामी । `वौ कषलस-` (अष्टाध्यायी ३.२.१४३ ) इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्रमसिचत सिक्तवान् । स्वरितेत्त्वादात्मनेपदम् । `आत्मनेपदेष्वन्यतरस्याम्` (अष्टाध्यायी २.४.४४ ) इति सिञ्चतेर्लुङि च्लेरङादेशः । शशधरदीधितिच्छटाच्छैः शशिकरनिकरस्वच्छैः तैरेव तोयैर्दूरात्प्रतियुवतेः सपत्न्याः कालुष्यमाविलत्वं, वैवर्ण्यं चाकारि । स्वच्छतोयैः कालुष्यं कृतमिति विरुद्धकार्योत्पत्तिरूपो विषमभेदः । तच्चान्यत्रेत्यसंगतिः वैवर्ण्यकालुष्ययोरभेदाध्यवसायादतिशयोक्तिस्तदुत्थापितेति संकरः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
कु र्व द्भि मु रु चि मु ज्ज ला स्रं
यै स्तो यै सि ल्ल भां वि ला सी
तै रे प्र ति यु ते का रि दू रा
त्का लु ष्यं दी धि ति च्छ टा च्छैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.