Loading data... On slow networks this could take a few minutes.
100%

शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः
कौसुम्भं पृथुकुचकुम्भसङ्गिवासः ।
मार्द्वीकं प्रयतमसन्निधानंमास-
न्नारीणामिति जलकेलिसाधनानि ॥

मल्लिनाथः शृङ्गाणीति ॥ द्रुतेन तप्तनिषिक्तेन कनकेनोज्ज्वलानि । लिप्तानीत्यर्थः । शृङ्गाणि क्रीडाम्बुयन्त्राणि । `शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके` इति विश्वः । गन्धाश्चन्दनकुङ्कुमादिगन्धद्रव्याणि । अत एव पुंसि बहुत्वं च । `गन्धस्तु सौरभे योगे गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥` इत्यभिधानात् । पृथु विशालं कुचकुम्भसङ्गि कुचावरणं कुसुम्भेन रक्तं कौसुम्भम् । `तेन रक्तं रागात्` (अष्टाध्यायी ४.२.१ ) इत्यण् प्रत्ययः । वासो वस्त्रं मृद्वीकाया विकारो मार्द्वीकं द्राक्षामद्यम् । `मृद्वीका गोस्तनी द्राक्षा` इत्यमरः । किंच प्रियतमसंनिधानम् । सर्वसाफल्यकारणमिति भावः । इत्येतानि नारीणां जलकेलिसाधनानि जलक्रीडोपाया आसन् । उद्दीपकसंपत्तिरुक्ता । अत्र शृङ्गादीनां केलिसाधनत्वस्वरूपतुल्यधर्मयोगात्प्रकृतत्वाच्च केवलप्रकृतगोचरा तुल्ययोगिता
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
शृ ङ्गा णि द्रु को ज्व ला नि न्धाः
कौ सु म्भं पृ थु कु कु म्भ ङ्गि वा सः
मा र्द्वी कं प्र न्नि धा नं मा
न्ना री णा मि ति के लि सा ना नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.