स्फुचमिदमभिचारमन्त्र एव
प्रतियुवतेरभिधानमङ्गनानाम् ।
वरतनुरमुनोपहूय पत्या
मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥

मल्लिनाथः स्फुटमिति ॥ इदं प्रतियुवतेः सपत्न्या अभिधानं नामधेयं अङ्गनानामभिचारः परमारणकर्म । यथा `श्येनेनाभिचरन् यजेत` इति तस्य मन्त्रोऽभिचारमन्त्रः स एव स्फुटमित्युत्प्रेक्षा । यद्यस्माद्वरतनुः स्त्री पत्या भर्त्रा अमुना सपत्नीनामधेयेनोपहूय मृदुकुसुमेन । मृदुग्रहणमचिरावचितत्वं द्योतयन् देवताभिचारमन्त्राणामनादि संस्कारभावं द्योतयति । तेनाप्याहता अमूर्च्छत् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं सोऽभिचारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्फु मि भि चा न्त्र
प्र ति यु ते भि धा ङ्ग ना नाम्
नु मु नो हू त्या
मृ दु कु सु मे दा ता प्य मू र्च्छत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.