विनयति सुदृशो दृशः परागं
प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णो-
र्द्वयमपि रोषरझोभिरापुपूरे ॥

मल्लिनाथः विनयतीति ॥ प्रणयिनि प्रिये सुदृशः प्रियाया दृशो लोचनात् । एकस्मादेवेति भावः । कुसुमेषु भवं कौसुमं परागं रजःकणम् । तच्चैकमेवेति भावः । आननानिलेन निजमुखफूत्कारेण विनयत्यपनयति सति तदहितयुवतेः तत्सपत्न्याः अक्ष्णोर्द्वयमपि । न त्वेकमेवेति भावः । रोषा एव रजांसि तैरभीक्ष्णमापुपूरे । नैकेन रजःकणेन किंचित्स्पृष्टमात्रमिति भावः । पूरयतेः कर्मणि लिट् । पूर्णमित्यर्थः । अत्र रजोविनयस्यान्यत्र रजःपूरणकारणत्वायोगादकारणत्वमेव पूरणमिति विभावनालंकारो रूपकानुप्राणित इति संकरः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि ति सु दृ शो दृ शः रा गं
प्र यि नि कौ सु मा ना नि ले
हि यु ते भी क्ष्ण क्ष्णो
र्द्व पि रो झो भि रा पु पू रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.