Loading data... On slow networks this could take a few minutes.
100%

तव कितव किमाहितैर्वृथा नः
क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकै-
श्चिरपरिपूरितमेव कर्णयुग्मम् ॥

मल्लिनाथः तवेति ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथासिद्धत्वादिति भावः । तव संबन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं पूरयन्तीति कर्णपूराः कर्णावतंसाः । कर्मण्यण् । तैर्नोऽस्माकं किं तत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया कर्णपूराणां करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-`न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य, अपि तु गम्यमानापि` इति । किंतु नन्वङ्ग जनविदितैर्जनेष्वतिप्रसिद्धैः । जनेषु विदितैरिति सप्तमीसमासः । `क्तस्य च वर्तमाने` (अष्टाध्यायी २.३.६७ ) इति कृद्योगे षष्ठीप्रतिप्रसवत्वेऽपि `क्तेन च पूजायाम्` (अष्टाध्यायी २.२.१२ ) इति षष्ठीसमासनिषेधात् जनानामाधारत्वविवक्षायां तदप्राप्तेः । भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः परिपूरितस्य पूरणायोगादलमेवैभिरित्यर्थः । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
कि कि मा हि तै र्वृ था नः
क्षि ति रु ल्ल पु ष्प र्ण पू रैः
नु वि दि तै र्भ द्व्य ली कै
श्चि रि पू रि मे र्ण यु ग्मम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.