Loading data... On slow networks this could take a few minutes.
100%

न खलु वयममुष्य दानयोग्याः
पिबति च पाति च यासकौ रहस्त्वां ।
व्रज विचपममुं ददस्व तस्यै
भवतु यतः सदृशोश्चिराय योगः ॥

मल्लिनाथः नेत्यादि ॥ वयममुष्य दानयोग्या न भवामः खलु, किंतु या असावेवासकौ त्वत्प्रिया । `अव्ययसर्वनाम्नामकच्प्राक्टेः` (अष्टाध्यायी ५.३.७१ ) इत्यकच् । रहो रहसि । `रहश्चोपांशु चालिङ्गे` इत्यमरः । त्वां पिबति पानं करोति । `पा पाने` भौवादिकात्कर्तरि लट् । `पाघ्रा-` (अष्टाध्यायी ३.१.१३७ ) इत्यादिना पिबादेशः । पाति रक्षति च । अन्यतो वारयति चेत्यर्थः । `पा रक्षणे` अदादित्वाच्छपो लुक् । तस्यै अमुं विटान् पातीति विटपं पल्लवम् । `विटपः पल्लवे षिङ्गे` इति विश्वः । ददस्व प्रयच्छ । `दद दाने` इति भौवादिकाल्लोट् । व्रज गच्छ । यतो दानाच्चिराय चिरकालात् । चिरार्थेऽव्ययम् । सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः । समालंकारोऽयम् । `सा समालंकृतिर्योगो वस्तुनोरनुरूपयोः` इति लक्षणात्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
लु मु ष्य दा यो ग्याः
पि ति पा ति या कौ स्त्वां
व्र वि मुं स्व स्यै
तु तः दृ शो श्चि रा यो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.