Loading data... On slow networks this could take a few minutes.
100%

विलसितमनुकुर्वती पुरस्ता-
द्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीना-
मकलितचापलदोषमालिलिङ्ग ॥

मल्लिनाथः विलसितमिति ॥ वधूः काचित् स्त्री पुरस्तादग्रे धरणिरुहमधिरोहतीति धरणिरुहाधिरुट् वृक्षाधिरूढा । रुहेः क्लिप् । तस्या लताया विलसितं चेष्टितम् । भावे क्तः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽग्रे अकलितोऽविचारितश्चापलमनुचितकरणमेव दोषो यस्मिन्कर्मणि तद्यथा तथा रमणं प्रियमालिलिङ्ग । एषा हर्षौत्सुक्यवती प्रौढा च
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि सि नु कु र्व ती पु स्ता
द्ध णि रु हा धि रु हो धू र्ल ता याः
मृ जु या पु रः खी ना
लि चा दो मा लि लि ङ्ग
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.