व्रततिविततिभिस्तिरोहितायां
प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्य-
त्करवलयस्वनितेन तद्विवव्रे ॥

मल्लिनाथः व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो, लताजालानि । `वल्ली तु व्रततिर्लता` इत्यमरः । ताभिस्तिरोहितायां सत्यां प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवादिकाल्लङ् । तद्दनपानमधरावलोपेनाधरखण्डनेन । तज्जनितव्यथयेत्यर्थः । नृत्यतोश्चलतोः करयोर्वलयानां कङ्कणानां स्वनितेन ध्वनिना विवव्रे विवृतम् । तदेव तस्यास्तदनुमापकमभूदित्यर्थः । अत्रैका हृष्टा अपरा त्वीया॑निर्वेदवतीत्यनुसंधेयम्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
व्र ति वि ति भि स्ति रो हि ता यां
प्र ति यु तौ नं प्रि यः प्रि या याः
रा लो नृ त्य
त्क स्व नि ते द्वि व्रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.