विततवलिविभाव्यपाण्डुलेखा-
कृतपरभाघविलीनरोमराजिः ।
कृशमपि कृशतां पुनर्नयन्ती
विपुलतरोन्मुखलोचनावलग्नं ॥

मल्लिनाथः विततेत्यादि ॥ काचिद्वितताभिर्गात्रोन्नमनाद्विश्लिष्टाभिर्वलिभिस्त्रिवलिभिर्विभाव्याः संलक्ष्याः पाण्डुलेखा रेखाकारा वलित्रयान्तरालभागास्ताभिः कृतपरभागा जनितवोत्कर्षाः अत एव विशेषेण लीना विलीना रोमराजिर्यस्याः सा तथोक्ता । कृशमपि । स्वभावत एवेति भावः । अवलग्नं मध्यम् । `मध्यमं चावलग्नं च मध्योऽस्त्री` इत्यमरः । पुनः कृशतां नयन्ती । अग्रपुष्पग्रहणाय गात्रविजृम्भणादिति भावः । तथा विपुलतरे उन्मुखे ऊर्ध्वमुखे च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि लि वि भा व्य पा ण्डु ले खा
कृ भा वि ली रो रा जिः
कृ पि कृ तां पु र्न न्ती
वि पु रो न्मु लो ना ग्नं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.