प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽंशुकेन ॥
मल्लिनाथः
प्रिय मिति ॥ अन्या स्त्री प्रियमभि । प्रियस्याग्रत इत्यर्थः । `अभिरभागे` (१/४/९१) इत्यभेर्लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । कुसुमेषूद्यतः कुसुमोद्यतः । कुसुमग्रहणार्थमुक्षिप्त इत्यर्थः । प्रकृतिविकारभावाभावान्न तादर्थ्ये चतुर्थीसमासः । तस्य बाहोर्नवं यन्नखं नखक्षतं तदेव मण्डनं तेन चारु सुन्दरं मूलम् । कक्षभागमित्यर्थः । मुहुरितरकरेण सव्यपाणिना आहितेन निहितेनांशुकेनोत्तरीयेण पीनं स्तनतटं रुणद्वीति पीनस्तनतटरोधि तदावरणं यथा तथा तिरोदधे तिरश्वकार । अयं चापलाख्यः संचारिभावः । `आत्मप्रकाशिची चेष्टा रागादेश्चापलं मतम्` इति लक्षणात् । प्रौढा चेयम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.