मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः । तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः । तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥
मल्लिनाथः
मुदितेति ॥ मुदिता हृष्टा मधुभुजो मधुपा यासु ताः शाखा भुजेन हस्तेन चलितानि विशृङ्खलान्यप्रतिहतरवाणि शङ्खकानि वलयानि यस्मिन् कर्मणि तद्यथा तथा धुवत्याः कम्पयन्त्याः । `धू विधूनने` इति धातोस्तौदादिकाच्छतरि ङीप् । `कृिति च` (१/१/५) इति गुणवृद्धिप्रतिषेधादुवङादेशः । अतिशयिता सौन्दर्येणातिक्रान्ता अपराङ्गना यया सा तस्याः शिरसि तरुर्मुदेव तदभिसरणसंतोषेणेवेति गुणहेतूत्प्रेक्षा । पुष्पवर्षं पुष्पवृष्टिं मुमोच
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.