Loading data... On slow networks this could take a few minutes.
100%

अभिमुखपतितैर्गुणप्रकर्षा-
दवजितमुद्धतिमुज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः
प्रसभमनीयत भङ्गमङ्गनानां ॥

मल्लिनाथः अभिमुखेति ॥ अभिमुखपतितैः भञ्जनार्थमभिमुखमागतैः उज्ज्वलामुत्कृष्टामुद्धतिमुपरिप्रसारमौद्धत्यं च दधानैरङ्गनानामग्राणि च ते हस्ताश्चेति समानाधिकरणसमासः । अत एव `हस्ताग्राग्रहस्तयोर्गुणगुणिनोरभेदात्` इति वामनः । तैरग्रहस्तैः कर्तृभिः गुणप्रकर्षाद्धेतोरवजितमवधीरितं तरुकिसलयजालं प्रसभं बलाद्भङ्गं छेदं पराजयं चानीयत नीतम् । `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्` इति किसलयजालस्य प्राधान्यादभिधानम् । अत्राग्रहस्तेषु विशेषणमहिम्ना जिगीषुत्वस्य किसलयज़ाले जेतव्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
भि मु ति तै र्गु प्र र्षा
जि मु द्ध ति मु ज्व लां धा नैः
रु कि जा ग्र स्तैः
प्र नी ङ्ग ङ्ग ना नां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.