मल्लिनाथः
जघनमिति ॥ काचित्स्त्री अलघू गुरू पीवरौ पीनौ चोरू यस्य तत् उरुनिर्महान् बिरीसो निबिडः । “निबिडं निबिरीसं च दृढं गाढं प्रचक्षते` इति वैजयन्ती । `नेर्बिडज्बिरीसचौ` (अष्टाध्यायी ५.२.३२ ) इति निशब्दाद्विरीसच्प्रत्ययः । स च यो नितम्बः स्त्रीकटिपश्चाद्भागः । `पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः` इत्यमरः । स एव भारस्तेन खिद्यत इति तथोक्तम् । आभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरोधरायां ग्रीवायामवलम्बिन्योर्लम्बमानयोः स्वभुजलतयोर्विभवेन सामर्थ्येन कृच्छ्रादूहे उवाह । वहेः स्वरितेत्त्वात्कर्त्रभिप्राय आत्मनेपदम् । इयं च पृष्टगामिनी प्रियकण्ठावलम्बा
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.