कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोपितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोपितेन ॥

मल्लिनाथः &#३२; कान्तेति ॥ सहत इति सहः । पचाद्यच् । स्मरस्य सहः । कामोद्दीपक इत्यर्थः । तेनासवेन तोषितः तेन स्मरसहासवतोषितेन अत एव रसहासावस्य स्त इति रसहासवता रागहास्यवता अत एव प्रेम्णा मनस्सु पुंसां चित्तेपूषितेन वसता । वसतेः कर्तरि क्तः । `वसतिक्षुधोरिद` (अष्टाध्यायी ७.२.५२ ) इतीडागमः `गतिबुद्धि-` (१|४|५२) इत्यादिसूत्रे चकाराद्वर्तमानार्थता । कान्तैव जनस्तेन कान्ताजनेन । जातावेकवचनम् । प्रसभं रहसि बलाद्गृहीतकेशे आकृष्टशिरोरुहे रते सुरते हेमन्ते भवा हैमन्यस्तासु हैमनीष्वपि । द्वाघीयसीष्वपीति भावः। `सर्वत्राण् च तलोपश्च` (अष्टाध्यायी ४.३.२२ ) इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केऽपीत्यर्थः । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूते लट् । एतेनातिभूमिं गतः शृङ्गार इति व्यज्यते । वसन्ततिलका वृत्तम्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
का न्ता ने सि प्र भं गृ ही
के शे ते स्म हा तो पि ते
प्रे म्णा स्तु नी ष्व पि है नी षु
के शे ते स्म हा तो पि ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.