जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकुरुतेन ।
तत्सम्पर्क प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥

मल्लिनाथः जातेति ॥ या स्त्री अनुवनान्तम् । विभक्त्यर्थेऽव्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एव सारसिकाः सारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । `काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः` इत्यमरः । काकुश्च तद्रुतं च तेन । कामे कामकल्पे । `सिंहो देवदत्त` इतिवद्गौणप्रयोगः । कान्ते प्रिये जातप्रीतिर्जातस्नेहाभूत् । रसिका रसवती । रागवतीत्यर्थः । `अत इनिठनौ` (अष्टाध्यायी ५.२.११५ ) इतीठन्प्रत्ययः । सा का स्त्री एकान्ते रहसि तस्य कान्तस्य संपर्कं प्राप्य पुरा पुरुषप्रेरणात्पूर्वमेव का मोहनलीलां सुरतक्रीडां न कुरुते । सर्वापि स्त्री सर्वानपि सुरतविशेषान् कामतन्त्रप्रसिद्धान् विस्रब्धं चकारेत्यर्थः । तेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम्
छन्दः मत्तमयूरम् [१३: मतयसग]
छन्दोविश्लेषणम्
१० ११ १२ १३
जा प्री ति र्या धु रे णा नु ना न्तं
का मे का न्ते सा सि का कु रु ते
त्स म्प र्क प्रा प्य पु रा मो ली लां
का मे का न्ते सा सि का का कु रु ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.