प्रस्वेदवारिसविशेषविषक्तमङ्गे
कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्वनपयोधरबाहुमूला
शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥

मल्लिनाथः प्रस्वेदेति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेषं सातिशयं यथा तथा विषक्तमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । `चोलः कूर्पासकोऽस्त्रियाम्` इत्यमरः । क्षतानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षिपन्ती उन्मोचयन्ती अत एवाविर्भवत्प्रकाशमानं घनपयोधरबाहुमूलं घनौ पयोधरौ बाहुमूले च यस्याः सा शातोदरी । `नासिकोदर-` (अष्टाध्यायी ४.१.५५ ) इत्यादिना ङीप् । युवदृशां क्षणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौत्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
प्र स्वे वा रि वि शे वि क्त ङ्गे
कू र्पा कं क्ष क्ष मु त्क्षि न्ती
वि र्भ द्व यो बा हु मू ला
शा तो री यु दृ शां क्ष मु त्स वो ऽभूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.