उत्क्षप्तपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः । दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥
उत्क्षप्तपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः । दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥
मल्लिनाथः
&#३२; उत्क्षिप्तेति ॥ उत्क्षिप्त उद्धृतो यः काण्डपट एव काण्डपटकः दूष्याधोलम्बिवायुसंचारार्थः पटः । `अपटः काण्डपटी स्यात्` इति वैजयन्ती । तस्यान्तरेऽवकाशे लीयमानेन मन्दानिलेन प्रशमितं श्रमेणाध्वखेदेन यद्धर्मतोयं स्वेदाम्बु तद्येषां तै राजदारै राजावरोधैः दूर्वाणां प्रतानं प्रचय एव सहजमकृत्रिममास्तरणं तल्पं येषु तेषु वसनसद्मसु पटमण्डपेषु निद्रासुखं भेजे
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.