भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्रसंख्यां ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥

मल्लिनाथः भिन्नेष्विति ॥ इहाद्राविन्दोः किरणेषु उदञ्चश्चावाञ्चश्च तैरुच्चावचैः । अनेकविधैरित्यर्थः । `उच्चावचं नैकभेदम्` इत्यमरः । मयूरव्यंसकादिषूच्चोच्चनीचाच्पराञ्चोञ्चावर्चकिंचनाकुतोभयानीति तत्पुरुषे निपातनात्साधुः । रत्नकिरणैर्भिन्नेषु मिश्रेषु अत एव सहस्रसंख्यामुपगतेषु सत्सु । नलिन्यः पद्मिन्यः । `नलं पद्मे नलं तृणम्` इति शाश्वतः । असौ प्रकाशमानोऽहिमांशुः । किलेति । सहस्रकिरणत्वात् सूर्य एवेति संभावनाबुद्ध्येत्यर्थः । `वार्तासंभाव्ययोः किल` इत्यमरः । दोषापि रात्रावपि । सप्तम्यर्थेऽव्ययम् । `दिवाह्वीत्यथ दोषा च नक्तं च रजनौ` इत्यमरः । व्याकोशकोकनदतां विकचपद्मतां दधते स्वीकुर्वन्ति । नूनमित्युत्प्रेक्षायाम् । `अथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदम्` इति, `व्याकोशविकचस्फुटाः` इति चामरः । इह देवभूमित्वान्नित्यपद्मा नलिन्य इति भावः । इह नलिनीनां दोषातनविकासासंबन्धेऽपि तत्संबन्धरूपयातिशयोक्त्या तस्येन्दावर्कभ्रान्तिनिमित्तोत्प्रेक्षया भ्रान्तिमदलंकारो व्यज्यते
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
भि न्ने षु त्न कि णैः कि णे ष्वि हे न्दो
रु च्चा चै रु ते षु स्र सं ख्यां
दो षा पि नू हि मां शु सौ कि ले ति
व्या को को तां ते लि न्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.