या न ययौ प्रियमन्यव-
धूभ्यः सारतरागमना यतमानम् ।
तेन सहेत बिभर्ति
रसः स्त्री सा रतरागमनायतानाम् ॥

मल्लिनाथः या नेति ॥ इहाद्रावन्यवधूभ्यः ख्यन्तरेभ्यः । `पञ्चमी विभक्ते` (अष्टाध्यायी २.३.४२ ) इति पञ्चमी । सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना । श्लाध्यसंगमेत्यर्थः । या स्त्री यतमानं स्वप्राप्त्यै प्रयतमानम् । प्रार्थयमानमित्यर्थः । `यती प्रयत्ने` शानच् । प्रियं न ययौ । सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमानमदीर्घरोषं यथा तथा रतरागं सुरताभिलाषं बिभर्ति । अयमतिमानवतीरपि सद्य एवोद्दीपयतीति भावः । दोधकवृत्तम् । `दोधकवृत्तमिदं भभभा गौ` इति लक्षणात्
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
या यौ प्रि न्य
धू भ्यः सा रा ना मा नम्
ते हे बि र्ति
सः स्त्री सा रा ना ता नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.