Loading data... On slow networks this could take a few minutes.
100%

स दिवं समचिच्छदच्छरौघैः
कृततिग्मद्युतिमण्डलापलापैः ।
ददृशेऽथ च तस्य चापयष्ट्या-
मिषुरेकैव जनै सकृद्विसृष्टा ॥

मल्लिनाथः स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदत् छादयति स्म । छादेः `गौ चङ्युपधाया हस्वः` (अष्टाध्यायी ७.४.१ ) `सन्यतः` (अष्टाध्यायी ७.४.७९ ) इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तत्वादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्चापयष्ट्यामिषुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इषूणां पुङ्खानुपुङ्खगमनाद्राधीयानेक एवेपुरेकदैव गच्छतीत्युत्प्रेक्षा । ईदृशलघुहस्तस्याकाशसंछादनं युक्तमिति भावः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
दि वं चि च्छ च्छ रौ घैः
कृ ति ग्म द्यु ति ण्ड ला ला पैः
दृ शे ऽथ स्य चा ष्ट्या
मि षु रे कै नै कृ द्वि सृ ष्टा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.