मल्लिनाथः
बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । `राज्याङ्गानि प्रकृतयः` इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मन्त्रगुप्तिरेव कञ्चुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः। पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थिकोऽण्प्रत्ययः । `चारश्च गूढपुरुषः` इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारेक्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । `अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे` इति भावः । दूतः संदेशहरः । `स्यात्संदेशहरो दूतः` इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्साध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवितव्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोsपीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धिशस्त्र इत्यादिरूपकनिर्व्यूंढेति तेन सहाङ्गाङ्गिभावेन संकरः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ |
|---|---|---|---|---|---|---|---|---|
| बु | द्धि | श | स्त्रः | प्र | कृ | त्य | ङ्गो | |
| घ | न | सं | वृ | ति | क | ञ्चु | कः | |
| चा | रे | क्ष | णो | दू | त | मु | खः | |
| प | पु | रु | षः | को | ऽपि | पा | र्थि | वः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.