बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥

मल्लिनाथः बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । `राज्याङ्गानि प्रकृतयः` इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मन्त्रगुप्तिरेव कञ्चुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः। पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थिकोऽण्प्रत्ययः । `चारश्च गूढपुरुषः` इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारेक्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । `अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे` इति भावः । दूतः संदेशहरः । `स्यात्संदेशहरो दूतः` इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्साध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवितव्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोsपीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धिशस्त्र इत्यादिरूपकनिर्व्यूंढेति तेन सहाङ्गाङ्गिभावेन संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बु द्धि स्त्रः प्र कृ त्य ङ्गो
सं वृ ति ञ्चु कः
चा रे क्ष णो दू मु खः
पु रु षः को ऽपि पा र्थि वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.