मल्लिनाथः
उदेतुमिति ॥ जेतुमिच्छर्जिगीषुरेक एव द्वादशस्वपि राजसु मध्ये द्वादशस्वादित्येषु दिनकृद्यो दिनकरणे व्याप्रियमाण आदित्यः स इव, ईहामुत्साहमत्यजन् प्रयुञ्जान एव । न तु निरुद्योग इति भावः । उदेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तेरपि मूलमित्यर्थः । `नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्` इति श्रुतेः । प्रतिमासमादित्यभेदाद्वादशत्वं तच्चैकस्यैव द्वादशात्मकत्वम् , `द्वादुशात्मा दिवाकरः` इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजानस्तु `अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥` पञ्चेति शेषः । `पार्ष्णिग्राहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । असारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥` पाणिग्राहासारः आक्रन्दासारश्चेत्यर्थः । अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः । `अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थों व्यस्तयोर्वधे । मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः ॥` इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| उ | दे | तु | म | त्य | ज | न्नी | हां |
| रा | ज | सु | द्व | द | श | स्व | पि |
| जि | गी | षु | रे | को | दि | न | कृ |
| दा | दि | त्ये | ष्वि | व | क | ल्प | ते |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.