Loading data... On slow networks this could take a few minutes.
100%

यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥

मल्लिनाथः यजतामिति ॥ पाण्डवो युधिष्ठिरो यजतां यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोऽर्कः । `इनः पत्यौ नृपार्कयोः` इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन् हनाम मारयाम। `आडुत्तमस्य पिच्च` (अष्टाध्यायी ३.४.९२ ) इत्याडागमः । सर्वत्र प्राप्तकाले लोट् । तथा हि—सर्वो जनः स्वार्थं स्वप्रयोजनं समीहतेऽनुसं. धत्ते । इन्द्रादिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तां पा ण्ड वः स्व
र्ग त्वि न्द्र स्प स्वि नः
यं ना द्वि तः
र्वः स्वा र्थं मी ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.