मल्लिनाथः
इन्द्रप्रस्थेति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । `ग्रहवृदृनिश्चिगमश्च` (अष्टाध्यायी ३.३.५८ ) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवेत्यर्थः । यावत्तावत्परिच्छेदे कार्त्स्न्ये मानावधारणे` इति विश्वः । कृञः कर्मणि लुङ् । `माङि लुङ्` (अष्टाध्यायी ३.३.१७५ ) इत्याशीरर्थे । `न माङ्योगे` (अष्टाध्यायी ६.४.७४ ) इत्यट्प्रतिषेधः । किंतु चेदयश्चेदिदेशाः । अस्माकमिमे आस्माकाः, `युष्मदस्मदोरन्यतरस्यां खञ्च` (अष्टाध्यायी ४.३.१ ) इति विकल्पादण्प्रत्ययः । तस्मिन्नणि च युष्माकास्माकौ` (अष्टाध्यायी ४.३.२ ) इत्यस्माकादेशः । संनिधिरेव सांनिध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सांनिध्यात् वामनीभूताः शाखाभङ्गात् खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियात्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव&#३२; द्वितीयः सर्गः ४९ स्वकार्येण गम्यत इति पर्यायोक्तालंकारः । `कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् । प्रस्तुतत्वेन संबन्धात् पर्यायोक्तः स उच्यते ॥` इति लक्षणात्
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| इ | न्द्र | प्र | स्थ | ग | म | स्ता | व |
| त्का | रि | मा | स | न्तु | चे | द | यः |
| आ | स्मा | क | द | न्ति | सा | न्नि | ध्या |
| द्वा | म | नी | भू | त | भू | रु | हः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.