Loading data... On slow networks this could take a few minutes.
100%

माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥

मल्लिनाथः माजीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद्दुःखं तेन दग्धस्तप्तोऽत एव माजीवन् गर्हितजीवी सन् । `माङयाक्रोशे-` (वा०) इति लटः शत्रादेशः । जीवति प्राणान्धारयति । जनन्याः क्लेशकारिणो गर्भधारणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्याजननमजननिरनुत्पत्तिरेवास्तु । जननीक्लेशनिवृत्त्यर्थमिति भावः । `आक्रोशे नञ्यनिः ` (अष्टाध्यायी ३.३.११२ ) इति नञ्पूर्वाज्जनिधातोरनिप्रत्ययः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा जी न्यः रा ज्ञा
दु ग्धो ऽपि जी ति
स्या नि रे वा स्तु
नी क्ले का रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.