Loading data... On slow networks this could take a few minutes.
100%

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥

मल्लिनाथः अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्ते काले योषितो लज्जेव पुंसोऽन्यदा अपरिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धार्ष्ट्यमिव । "धृष्टे धृष्णुर्वियातश्च` इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्य दा भू णं पुं सः
क्ष मा ज्जे यो षि तः
रा क्र मः रि वे
वै या त्यं सु ते ष्वि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.