त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।
बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥

मल्लिनाथः त्वयेति ॥ हे हरे, रुक्मिणीं हरता । बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वहतेत्यर्थः । `राक्षसो युद्धहरणात्` इति याज्ञवल्क्यः (आचाराध्याये ३।६१)। `गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ` इति मनुः (३।२६) । त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथाहि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महत् प्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्व या वि प्र कृ श्चै द्यो
रु क्मि णीं ता रे
द्ध मू स्य मू लं हि
द्वै रोः स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.