Loading data... On slow networks this could take a few minutes.
100%

पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥

मल्लिनाथः पश्चादिति ॥ नराणां पुंसामिव पश्चात्कृतानां निषङ्गसङ्गितया पृष्ठस्थापितानामपि, अन्यत्रावधीरितानामपि । पत्रिणामिषूणां मध्य इत्यर्थः । यो यः पत्री, नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुक्तः संबद्धः स स पत्री नरश्चास्य हरेः कर्णान्तं कर्णसमीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्रान्तिकमागत इत्यर्थः । श्लेषसंकीर्णोपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्चा त्कृ ता ना प्य स्य
रा णा मि त्रि णाम्
यो यो गु णे सं यु क्तः
र्णा न्त मा यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.