तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥

मल्लिनाथः तत्रेति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोऽतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कार्मुकस्यारवश्व द्विषां सुष्टु परुषः सुपरुषोऽतिकर्कशोऽभूत् । यमकविशेषालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र बा णाः सु रु षः
धी न्त चा वः
द्वि षा भू त्सु रु
स्त स्या कृ ष्ट स्य चा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.