Loading data... On slow networks this could take a few minutes.
100%

विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥

मल्लिनाथः (युग्मम् ।) विद्विष इति ॥ तं पूर्वोक्तं हरिमुद्वीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि `द्विषश्च` (अष्टाध्यायी ३.४.११२ ) इति विकल्पेन झेर्जुसादेशः । तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । `राजसूय-` (३।११११४) इत्यादिना क्यबन्तो निपातितः। अरुच्यमरोचमानमपि भेषजमौषधम् । `भेषजौषधभेषज्यानि` इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगघ्नमारोग्यकारि । `हरिर्हरति पापानि` ( ) इति वचनादिति भावः । `अमनुष्यकर्तृके च` (अष्टाध्यायी ३.२.५३ ) इति टप्रत्ययः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि द्वि षो ऽद्वि षु रु द्वी क्ष्य
था प्या न्नि रे सः
रु च्य पि रो घ्नं
नि र्गा दे भे जम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.