Loading data... On slow networks this could take a few minutes.
100%

भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥

मल्लिनाथः भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः । मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैर्भीरैः भयदैः । । `रा दाने, आतो&#३२; ऽनुपसर्गे कः` (३|२|३)। भूभारैः महाकायत्वाद्भुवो भारायमाणैः । भैर्य इव रेभन्ते ध्वनन्तीति भेरीरेभिभिः । `रेभृ शब्दे` ताच्छील्ये णिनिः । अभ्राभैर्मेचकैरिति चोपमाद्वयम् । अभीरुभिर्निर्भीकैरिभैर्गजैः । इभाः प्रतिगजास्तादृशा एव अभिरेभिरे अभियुक्ताः । उपमानुप्रासयोः संकरः । द्व्यक्षरानुप्रासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भू रि भि र्भा रि भि र्भी रै
र्भू भा रै भि रे भि रे
भे री रे भि भि भ्रा भै
भी रु भि रि भै रि भाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.