Loading data... On slow networks this could take a few minutes.
100%

रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥

मल्लिनाथः रक्तेति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्यधाद्वाणप्रहारात् । `व्यधजपोरनुपसर्गे` (अष्टाध्यायी ३.३.६१ ) इत्यप्प्रत्ययः । जपासूनसमरागां रक्तस्रुतिं रक्तस्रावं व्यधाद्विहितवान् । दधातेर्लुङि `गातिस्था-` (२|४|७७) इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्त श्रु तिं पा सू
रा गा मि षु व्य धात्
श्चि त्पु रः त्ने षु
रा मि षु व्य धात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.