पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥

मल्लिनाथः पुरस्कृत्येति ॥ फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । संभाव्येत्यर्थः । प्राप्तैरागतैः सत्पक्षाश्रयेण साधुकङ्कादिपत्रग्रन्थनेन, अन्यत्र साधुसहायावलम्बनेन शालन्ते इति तथोक्तै: मार्गणैः सायकैरर्थिभिश्च । `मार्गणौ सायकार्थिनौ` इत्यमरः । कृतपुङ्खतया सुबद्धकर्तरीकतया । `मुखस्थकर्तरी पुङ्खः` इति यादवः । अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यं, अन्यत्र लक्षसंख्यमपि धनं लेभे, शतादिकं किमु वक्तव्यमिति भावः । `लक्षं शरव्ये संख्यायाम्` इति विश्वः । अत्राभिधायाः प्रकृतार्थनियन्त्रणादर्थान्तरप्रतीतेर्ध्वनिरेव
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु स्कृ त्य लं प्रा प्तैः
त्प क्षा श्र शा लि भिः
कृ पु ङ्ख या ले भे
क्ष प्या शु मा र्ग णैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.