केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥

मल्लिनाथः केनचिदिति ॥ स्वासिना स्वखङ्गेन अन्येषां मण्डलाग्रानवद्यता खण्डयता । द्यतेर्लटः शत्रादेशः । केनचिद्वीरेण कीर्तिप्लुतं यशोव्याप्तं महीमण्डलाग्रं भूपृष्टं यस्याः सा कीर्तिप्लुतमहीमण्डलाग्रा अनवद्यता अनिन्द्यता प्रापे प्राप्ता
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
के चि त्स्वा सि ना न्ये षां
ण्ड ला ग्रा द्य ता
प्रा पे की र्ति प्लु ही
ण्ड ला ग्रा द्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.