Loading data... On slow networks this could take a few minutes.
100%

पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥

मल्लिनाथः पुर इति ॥ तद्युद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्तितैः । अन्यत्र गानात्पूर्वमुच्चारितैः चलितैः मण्डलचारिभिः । अन्यत्र मुहुरावर्तितैरित्यर्थः । लब्धशुद्धिभिः । कातर्यकपटादिदोषरहितैरित्यर्थः । अन्यत्रावृत्तैः । रागानुगुणैरित्यर्थः । पदातिभिः पत्तिभिः करणैः गान्धर्वं गानमालापैरालापिभिरिवाक्षरविशेषैरिवादीप्यताशोभत
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रः प्र यु क्तै र्यु द्धं
च्च लि तै र्ल ब्ध शु द्धि भिः
ला पै रि गा न्ध र्व
दी प्य दा ति भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.